🪷 अयोध्याकाण्ड · Sarga 63

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 63 · 56 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.63.1
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥
Vālmīki 2.63.2
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥
Vālmīki 2.63.3
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥
Vālmīki 2.63.4
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥
Vālmīki 2.63.5
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥
Vālmīki 2.63.6
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥
Vālmīki 2.63.7
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥
Vālmīki 2.63.8
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥
Vālmīki 2.63.9
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥
Vālmīki 2.63.10
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥
Vālmīki 2.63.11
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥
Vālmīki 2.63.12
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥
Vālmīki 2.63.13
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥
Vālmīki 2.63.14
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥
Vālmīki 2.63.15
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥
Vālmīki 2.63.16
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥
Vālmīki 2.63.17
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥
Vālmīki 2.63.18
पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥
Vālmīki 2.63.19
पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥
Vālmīki 2.63.20
आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥
Vālmīki 2.63.21
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥
Vālmīki 2.63.22
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
Vālmīki 2.63.23
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
Vālmīki 2.63.24
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
Vālmīki 2.63.25
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
Vālmīki 2.63.26
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
Vālmīki 2.63.27
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥
Vālmīki 2.63.28
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥
Vālmīki 2.63.29
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥
Vālmīki 2.63.30
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥
Vālmīki 2.63.31
जटा भार धरस्य एव वल्कल अजिन वाससः ।को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥
Vālmīki 2.63.32
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥
Vālmīki 2.63.33
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥
Vālmīki 2.63.34
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥
Vālmīki 2.63.35
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥
Vālmīki 2.63.36
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥
Vālmīki 2.63.37
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥
Vālmīki 2.63.38
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
Vālmīki 2.63.39
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥
Vālmīki 2.63.40
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥
Vālmīki 2.63.41
किम् तव अपकृतम् राजन् वने निवसता मया ।जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥
Vālmīki 2.63.42
एकेन खलु बाणेन मर्मणि अभिहते मयि ।द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥
Vālmīki 2.63.43
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥
Vālmīki 2.63.44
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥
Vālmīki 2.63.45
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥
Vālmīki 2.63.46
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥
Vālmīki 2.63.47
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥
Vālmīki 2.63.48
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥
Vālmīki 2.63.49
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥
Vālmīki 2.63.50
दुःखितस्य च दीनस्य मम शोकातुरस्य च ।लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥
Vālmīki 2.63.51
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥
Vālmīki 2.63.52
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥
Vālmīki 2.63.53
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥
Vālmīki 2.63.54
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
Vālmīki 2.63.55
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥
Vālmīki 2.63.56
जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।मर्म व्रणम् सम्ततम् उच्चसन्तम् ।ततः सरय्वाम् तम् अहम् शयानम् ।समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷