🪷 अयोध्याकाण्ड · Sarga 62
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 62 · 21 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥
स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥
अमनाः तेन शोकेन राम शोकेन च प्रभुः ।द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 61
- Next: Ayodhyā-Kāṇḍa Sarga 63 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷