🪷 अयोध्याकाण्ड · Sarga 58

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 58 · 37 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.58.1
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥
Vālmīki 2.58.2
तदा सूतो महाराज कृताञ्जलिरुपस्थितः।राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
Vālmīki 2.58.3
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥
Vālmīki 2.58.4
राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥
Vālmīki 2.58.5
क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥
Vālmīki 2.58.6
दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥
Vālmīki 2.58.7
यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥
Vālmīki 2.58.8
व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥
Vālmīki 2.58.9
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥
Vālmīki 2.58.10
सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥
Vālmīki 2.58.11
किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥
Vālmīki 2.58.12
आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥
Vālmīki 2.58.13
इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥
Vālmīki 2.58.14
अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥
Vālmīki 2.58.15
सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥
Vālmīki 2.58.16
सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥
Vālmīki 2.58.17
माता च मम कौसल्या कुशलम् च अभिवादनम् ।अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥
Vālmīki 2.58.18
धर्मनित्या यथाकालमग्न्यगारपरा भव ।देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥
Vālmīki 2.58.19
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥
Vālmīki 2.58.20
कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥
Vālmīki 2.58.21
भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥
Vālmīki 2.58.22
वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥
Vālmīki 2.58.23
अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥
Vālmīki 2.58.24
अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥
Vālmīki 2.58.25
इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥
Vālmīki 2.58.26
लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥
Vālmīki 2.58.27
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥
Vālmīki 2.58.28
यदि प्रव्राजितः रामः लोभ कारण कारितम् ।वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥
Vālmīki 2.58.29
इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥
Vālmīki 2.58.30
असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥
Vālmīki 2.58.31
अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥
Vālmīki 2.58.32
सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥
Vālmīki 2.58.33
सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥
Vālmīki 2.58.34
जानकी तु महा राज निःश्वसन्ती तपस्विनी ।भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥
Vālmīki 2.58.35
अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥
Vālmīki 2.58.36
उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥
Vālmīki 2.58.37
तथैव रामः अश्रु मुखः कृत अन्जलिः ।स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।तथैव सीता रुदती तपस्विनी ।निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷