🪷 अयोध्याकाण्ड · Sarga 57

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 57 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.57.1
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥
Vālmīki 2.57.2
भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥
Vālmīki 2.57.3
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥
Vālmīki 2.57.4
स वनानि सुगन्धीनि सरितः च सराम्सि च ।पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥
Vālmīki 2.57.5
ततः साय अह्न समये तृतीये अहनि सारथिः ।अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥
Vālmīki 2.57.6
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥
Vālmīki 2.57.7
कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥
Vālmīki 2.57.8
इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥
Vālmīki 2.57.9
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥
Vālmīki 2.57.10
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥
Vālmīki 2.57.11
ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥
Vālmīki 2.57.12
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥
Vālmīki 2.57.13
दान यज्ञ विवाहेषु समाजेषु महत्सु च ।न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥
Vālmīki 2.57.14
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥
Vālmīki 2.57.15
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥
Vālmīki 2.57.16
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥
Vālmīki 2.57.17
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥
Vālmīki 2.57.18
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥
Vālmīki 2.57.19
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥
Vālmīki 2.57.20
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥
Vālmīki 2.57.21
सह रामेण निर्यातः विना रामम् इह आगतः ।सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥
Vālmīki 2.57.22
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥
Vālmīki 2.57.23
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥
Vālmīki 2.57.24
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥
Vālmīki 2.57.25
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥
Vālmīki 2.57.26
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥
Vālmīki 2.57.27
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥
Vālmīki 2.57.28
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥
Vālmīki 2.57.29
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥
Vālmīki 2.57.30
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥
Vālmīki 2.57.31
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥
Vālmīki 2.57.32
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥
Vālmīki 2.57.33
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥
Vālmīki 2.57.34
ततः तम् अन्तः पुर नादम् उत्थितम् ।समीक्ष्य वृद्धाः तरुणाः च मानवाः ।स्त्रियः च सर्वा रुरुदुः समन्ततः ।पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷