🪷 अयोध्याकाण्ड · Sarga 59

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 59 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.59.1
मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥
Vālmīki 2.59.2
उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥
Vālmīki 2.59.3
गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥
Vālmīki 2.59.4
विषये ते महा राज माम व्यसन कर्शिताः ।अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥
Vālmīki 2.59.5
उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥
Vālmīki 2.59.6
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥
Vālmīki 2.59.7
लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥
Vālmīki 2.59.8
जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥
Vālmīki 2.59.9
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥
Vālmīki 2.59.10
प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥
Vālmīki 2.59.11
देव राजरथम् दृष्ट्वा विना राममिहागतम् ।दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥
Vālmīki 2.59.12
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥
Vālmīki 2.59.13
आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥
Vālmīki 2.59.14
न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥
Vālmīki 2.59.15
अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
Vālmīki 2.59.16
निरानन्दा महा राज राम प्रव्राजन आतुला ।कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥
Vālmīki 2.59.17
सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥
Vālmīki 2.59.18
कैकेय्या विनियुक्तेन पाप अभिजन भावया ।मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥
Vālmīki 2.59.19
न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥
Vālmīki 2.59.20
भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥
Vālmīki 2.59.21
सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥
Vālmīki 2.59.22
यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥
Vālmīki 2.59.23
अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥
Vālmīki 2.59.24
वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥
Vālmīki 2.59.25
लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥
Vālmīki 2.59.26
अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥
Vālmīki 2.59.27
हा राम राम अनुज हा हा वैदेहि तपस्विनी ।न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥
Vālmīki 2.59.28
स तेन राजा दुःखेन भृशमर्पितचेतनः ।अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥
Vālmīki 2.59.29
रामशोकमहाभोगः सीताविरहपारगः ।श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
Vālmīki 2.59.30
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
Vālmīki 2.59.31
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
Vālmīki 2.59.32
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥
Vālmīki 2.59.33
अशोभनम् यो अहम् इह अद्य राघवम् ।दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥
Vālmīki 2.59.34
इति विलपति पार्थिवे प्रनष्टे ।करुणतरम् द्विगुणम् च राम हेतोः ।वचनम् अनुनिशम्य तस्य देवी ।भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷