🪷 अयोध्याकाण्ड · Sarga 28
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 28 · 26 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥
सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥
सीते महा कुलीना असि धर्मे च निरता सदा ।इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥
सीते विमुच्यताम् एषा वन वास कृता मतिः ।बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥
हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥
गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥
क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥
लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥
सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥
अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥
उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥
देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥
कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥
यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि ।यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥
अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥
सरी सृपाः च बहवो बहु रूपाः च भामिनि ।चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥
नदी निलयनाः सर्पा नदी कुटिल गामिनः ।तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥
पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥
द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥
कायक्लेशाश्च बहवो भयानि विविधानि च ।अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥
क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥
तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥
वनम् तु नेतुम् न कृता मतिस् तदा ।बभूव रामेण यदा महात्मना ।न तस्य सीता वचनम् चकार तत् ।ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 27
- Next: Ayodhyā-Kāṇḍa Sarga 29 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷