🪷 अयोध्याकाण्ड · Sarga 27
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 27 · 23 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥
किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥
आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥
भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥
न पिता न आत्मजो न आत्मा न माता न सखी जनः ।इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥
यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥
ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥
प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥
अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥
अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥
सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥
शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥
त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥
सह त्वया गमिश्यामि वसमद्य न सम्शयः ।नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥
फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥
इच्चामि सरितः शैलान् पल्वलानि वनानि च ।द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥
हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥
अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥
एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥
स्वर्गे अपि च विना वासो भविता यदि राघव ।त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥
अहम् गमिष्यामि वनम् सुदुर्गमम् ।मृग आयुतम् वानर वारणैः युतम् ।वने निवत्स्यामि यथा पितुर् गृहे ।तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥
अनन्य भावाम् अनुरक्त चेतसम् ।त्वया वियुक्ताम् मरणाय निश्चिताम् ।नयस्व माम् साधु कुरुष्व याचनाम् ।न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥
तथा ब्रुवाणाम् अपि धर्म वत्सलो ।न च स्म सीताम् नृ वरः निनीषति ।उवाच च एनाम् बहु सम्निवर्तने ।वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 26
- Next: Ayodhyā-Kāṇḍa Sarga 28 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷