🪷 अयोध्याकाण्ड · Sarga 26
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 26 · 38 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥
विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥
वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥
देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥
प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥
अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥
ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥
विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥
न ते शत शलाकेन जल फेन निभेन च ।आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥
व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥
वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥
न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥
न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥
चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥
न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥
न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥
अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥
इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥
कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥
राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥
तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥
चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥
सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥
ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥
न अपि त्वम् तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥
तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥
अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥
याते च मयि कल्याणि वनम् मुनि निषेवितम् ।व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥
काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥
माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥
वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥
भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥
विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥
आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥
औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥
सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥
अहम् गमिष्यामि महा वनम् प्रिये ।त्वया हि वस्तव्यम् इह एव भामिनि ।यथा व्यलीकम् कुरुषे न कस्यचित् ।तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 25
- Next: Ayodhyā-Kāṇḍa Sarga 27 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷