🪷 अयोध्याकाण्ड · Sarga 25

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 25 · 47 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.25.1
सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि ।चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥
Vālmīki 2.25.2
न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम ।श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥
Vālmīki 2.25.3
यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च ।सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥
Vālmīki 2.25.4
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥
Vālmīki 2.25.5
यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता ।तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥
Vālmīki 2.25.6
पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा ।सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥२-२५-६॥
Vālmīki 2.25.7
समित्कुशपवित्राणि वेद्यश्चायतनानि च ।स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥
Vālmīki 2.25.8
पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम ।स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥
Vālmīki 2.25.9
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा ।ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥
Vālmīki 2.25.10
ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः ।दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥
Vālmīki 2.25.11
स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः ।स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥
Vālmīki 2.25.12
सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः ।याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥
Vālmīki 2.25.13
स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः ।शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥
Vālmīki 2.25.14
द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च ।नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥
Vālmīki 2.25.15
अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् ।ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥
Vālmīki 2.25.16
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥
Vālmīki 2.25.17
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥
Vālmīki 2.25.18
क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् ।प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥२-२५-१८॥
Vālmīki 2.25.19
सरी सृपाः च कीटाः च मा भूवन् गहने तव ।महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥
Vālmīki 2.25.20
महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥
Vālmīki 2.25.21
मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह ।आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥
Vālmīki 2.25.22
सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक ।स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥
Vālmīki 2.25.23
सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः ।गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥
Vālmīki 2.25.24
पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् ।अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥
Vālmīki 2.25.25
उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन ।सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥
Vālmīki 2.25.26
ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् ।इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥
Vālmīki 2.25.27
स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना ।ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥
Vālmīki 2.25.28
हावयामास विधिना राममङ्गलकारणात् ।घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥
Vālmīki 2.25.29
उपसम्पादयामास कौसल्या पमाङ्गना ।उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥
Vālmīki 2.25.30
हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् ।मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥
Vālmīki 2.25.31
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥
Vālmīki 2.25.32
दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् ।यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥
Vālmīki 2.25.33
वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् ।यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥
Vālmīki 2.25.34
अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् ।अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥
Vālmīki 2.25.35
अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥
Vālmīki 2.25.36
यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥
Vālmīki 2.25.37
मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः ।इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥
Vālmīki 2.25.38
गन्दाम्श्चापि समालभ्य राममायतलो चना ।ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥
Vālmīki 2.25.39
चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च ।उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥
Vālmīki 2.25.40
वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया ।आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥
Vālmīki 2.25.41
अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् ।अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥
Vālmīki 2.25.42
पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि ।प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥
Vālmīki 2.25.43
द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् ।भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥
Vālmīki 2.25.44
द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः ।मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥
Vālmīki 2.25.45
पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः ।मया अर्चिता देव गणाः शिव आदयो ।महर्षयो भूत महा असुर उरगाः ।अभिप्रयातस्य वनम् चिराय ते।हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥
Vālmīki 2.25.46
इति इव च अश्रु प्रतिपूर्ण लोचना।समाप्य च स्वस्त्ययनम् यथा विधि ।प्रदक्षिणम् चैव चकार राघवम् ।पुनः पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥
Vālmīki 2.25.47
तथा तु देव्या स कृत प्रदक्षिणो ।निपीड्य मातुः चरणौ पुनः पुनः ।जगाम सीता निलयम् महा यशाः ।स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷