🪷 अयोध्याकाण्ड · Sarga 24
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 24 · 37 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने ।कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥२-२४-१॥
अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः ।मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२-२४-२॥
यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते ।कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥२-२४-३॥
क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् ।गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥२-२४-४॥
नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् ।लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥२-२४-५॥
अयम् तु मामात्मभवस्तवादर्शनमारुतः ।विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥२-२४-६॥
चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः ।कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥२-२४-७॥
त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् ।प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥२-२४-८॥
कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति ।अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥२-२४-९॥
तथा निगदितम् मात्रा तत् वाक्यम् पुरुष Rषभः ।श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम्।कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते ।भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥२-२४-१०॥
भर्तुः किल परित्यागो नृशम्सः केवलम् स्त्रियाः ।स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥२-२४-११॥
यावज् जीवति काकुत्स्थः पिता मे जगती पतिः ।शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥२-२४-१२॥
एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना ।तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥२-२४-१३॥
एवम् उक्तः तु वचनम् रामः धर्मभ्Rताम् वरः ।भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥२-२४-१४॥
मया चैव भवत्या च कर्तव्यम् वचनम् पितुः ।राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥२-२४-१५॥
इमानि तु महा अरण्ये विह्Rत्य नव पन्च च ।वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥२-२४-१६॥
एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा ।उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥२-२४-१७॥
आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् ।नय माम् अपि काकुत्स्थ वनम् वन्यम् म्Rगीम् यथा ॥२-२४-१८॥
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ।ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२-२४-१९॥
जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च ।भवत्या मम चैव अद्य राजा प्रभवति प्रभुः ।भरतः च अपि धर्मात्मा सर्व भूत प्रियम् वदः ॥२-२४-२०॥
भवतीम् अनुवर्तेत स हि धर्म रतः सदा ।यथा मयि तु निष्क्रान्ते पुत्र शोकेन पार्थिवः ॥२-२४-२१॥
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२-२४-२२॥
श्रमम् न अवाप्नुयात् किम्चित् अप्रमत्ता तथा कुरु ।दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२-२४-२३॥
राज्ञो वृद्धस्य सततम् हितम् चर समाहिता ।व्रत उपवास निरता या नारी परम उत्तमा ॥२-२४-२४॥
भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् ।भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२-२४-२५॥
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२-२४-२६॥
एष धर्मः पुरा द्Rष्टः लोके वेदे श्रुतः स्म्Rतः ।अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२-२४-२७॥
पूज्याः ते मत् क्Rते देवि ब्राह्मणाः चैव सुव्रताः ।एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२-२४-२८॥
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ।प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥२-२४-२९॥
यदि धर्मभ्Rताम् श्रेष्ठो धारयिष्यति जीवितम् ।एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥२-२४-३०॥
कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् ।गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥२-२४-३१॥
विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः ।गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥२-२४-३२॥
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥२-२४-३३॥
पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् ।कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥२-२४-३४॥
यस्त्वा सम्चोदयति मे वच आच्चिद्य राघव ।गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥२-२४-३५॥
नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा ।अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥२-२४-३६॥
यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् ।तथा हि रामम् वन वास निश्चितम् ।ददर्श देवी परमेण चेतसा ।उवाच रामम् शुभ लक्षणम् वचो।बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥२-२४-३७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 23
- Next: Ayodhyā-Kāṇḍa Sarga 25 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷