🪷 अयोध्याकाण्ड · Sarga 29

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 29 · 24 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.29.1
एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता ।प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥
Vālmīki 2.29.2
ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति ।गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥
Vālmīki 2.29.3
मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा ।पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥
Vālmīki 2.29.4
अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥
Vālmīki 2.29.5
त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया ।त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥
Vālmīki 2.29.6
न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव ।सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥
Vālmīki 2.29.7
पति हीना तु या नारी न सा शक्ष्यति जीवितुम् ।कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥
Vālmīki 2.29.8
अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् ।पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥
Vālmīki 2.29.9
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे ।वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥
Vālmīki 2.29.10
आदेशो वन वासस्य प्राप्तव्यः स मया किल ।सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥
Vālmīki 2.29.11
कृत आदेशा भविष्यामि गमिष्यामि सह त्वया ।कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥
Vālmīki 2.29.12
वन वासे हि जानामि दुह्खानि बहुधा किल ।प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥
Vālmīki 2.29.13
कन्यया च पितुर् गेहे वन वासः श्रुतः मयाभिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥
Vālmīki 2.29.14
प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो ।गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥
Vālmīki 2.29.15
कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव ।वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥
Vālmīki 2.29.16
शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा ।भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥
Vālmīki 2.29.17
प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया ।श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥
Vālmīki 2.29.18
इह लोके च पितृभिर् या स्त्री यस्य महा मते ।अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥
Vālmīki 2.29.19
एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् ।न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥
Vālmīki 2.29.20
भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् ।नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥
Vālmīki 2.29.21
यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि ।विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥
Vālmīki 2.29.22
एवम् बहु विधम् तम् सा याचते गमनम् प्रति ।न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥
Vālmīki 2.29.23
एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता ।स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥
Vālmīki 2.29.24
चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् ।ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷