🪷 अयोध्याकाण्ड · Sarga 21
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 21 · 63 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥
न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥
विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥
न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥
न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥
देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥
तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥
यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥
निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥
भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥
प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥
बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥
त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥
अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥
दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥
हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥
एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥
भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥
न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥
धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥
शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥
यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥
त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥
यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥
ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥
विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥
न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥
ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥
अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥
जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥
न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥
नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥
तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥
ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥
मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥
धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥
सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥
सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥
तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥
तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥
अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥
तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥
शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥
अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥
एतद्वच स्तस्य निशम्य माता ।सुधर्म्यमव्यग्रमविक्लबम् च ।मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥
यथैव ते पुत्र पिता तथाहम् ।गुरुः स्वधर्मेण सुहृत्तया च ।न त्वानुजानामि न मांविहाय ।सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥
किम् जीवितेनेह विना त्वया मे ।लोकेन वा किम् स्वधयाऽमृतेन ।श्रेयो मुहूर्तम् तव सन्निधानम् ।ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥
नरैरिवोल्काभिरपोह्यमानो ।महागजोऽध्वानमनुप्रविष्टः ।भूयः प्रजज्वाल विलापमेवम् ।निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥
स मातरम् चैव विसम्ज्ञकल्पा ।मार्तम् च सौमित्रि मभिप्रतप्तम् ।धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥
अहम् हि ते लक्ष्मण नित्यमेव ।जानामि भक्तिम् च पराक्रमम् च ।मम त्वभिप्राय मसन्निरीक्ष्य ।मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥
धर्मार्थकामाः खलु तात लोके ।समीक्षिता धर्मफलोदयेषु ।ते तत्र सर्वे स्युरसम्शयम् मे ।भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥
यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।धर्मो यतः स्यात् तदुपक्रमेत ।द्वेष्यो भवत्यर्थपरो हि लोके ।कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥
गुरुश्च राजा च पिता च वृद्धः ।क्रोधात्प्रहर्ष द्यदि वापि कामात् ।यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥
सवै न शक्नोमि पितुः प्रतिज्ञा ।मिमामकर्तुम् सकलम् यथावत् ।स ह्यवयोस्तत गुरुर्नियोगे ।देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥
तस्मिन् पुनर्जीवति धर्मराजे ।विशेषतः स्वे पथि वर्तमाने ।देवी मया सार्थमितोऽपगच्छेत् ।कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥
सा मानुमन्यस्व वनम् व्रजन्तम् ।कुरुष्व नः स्वस्त्ययनानि देवि ।यथा समाप्ते पुनराव्रजेयम् ।यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥
यशो ह्यहम् केवलराज्यकारणात् ।न पृष्ठतः कर्तुमलम् महोदयम् ।अदीर्घकाले न तु देवि जीविते ।वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥
प्रसादयन् नर वृषभः स मातरम् ।पराक्रमाज्जिगमिषुरेव दोम्डकान् ।अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 20
- Next: Ayodhyā-Kāṇḍa Sarga 22 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷