🪷 अयोध्याकाण्ड · Sarga 22

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 22 · 30 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.22.1
अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥
Vālmīki 2.22.2
आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥
Vālmīki 2.22.3
निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥
Vālmīki 2.22.4
उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥
Vālmīki 2.22.5
सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥
Vālmīki 2.22.6
यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥
Vālmīki 2.22.7
तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥
Vālmīki 2.22.8
न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥
Vālmīki 2.22.9
सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥
Vālmīki 2.22.10
तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥
Vālmīki 2.22.11
अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥
Vālmīki 2.22.12
मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥
Vālmīki 2.22.13
मयि चीर अजिन धरे जटा मण्डल धारिणि ।गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥
Vālmīki 2.22.14
बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥
Vālmīki 2.22.15
कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥
Vālmīki 2.22.16
कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥
Vālmīki 2.22.17
जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥
Vālmīki 2.22.18
सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥
Vālmīki 2.22.19
कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥
Vālmīki 2.22.20
यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥
Vālmīki 2.22.21
कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥
Vālmīki 2.22.22
सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥
Vālmīki 2.22.23
ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥
Vālmīki 2.22.24
असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥
Vālmīki 2.22.25
एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥
Vālmīki 2.22.26
तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥
Vālmīki 2.22.27
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥
Vālmīki 2.22.28
अथवा किम् ममैतेन राजद्रव्यमयेन तु ।उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥
Vālmīki 2.22.29
मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥
Vālmīki 2.22.30
न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।माता यवीयस्य् अतिशन्कनीया ।दैव अभिपन्ना हि वदन्ति अनिष्टम् ।जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷