🪷 अयोध्याकाण्ड · Sarga 20
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 20 · 55 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥
क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥
कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥
अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥
स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥
रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥
सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥
द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥
प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥
प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥
वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥
कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥
सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥
प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥
देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥
ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥
सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥
स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥
तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥
व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥
सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥
दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥
स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥
देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥
गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥
भरताय महा राजो यौवराज्यम् प्रयच्चति ।माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥
स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥
सा निकृत्तैव सालस्य यष्टिः परशुना वने ।पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥
ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥
उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥
सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥
यदि पुत्र न जायेथा मम शोकाय राघव ।न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥
एकएव हि वन्ध्यायाः शोको भवति मानवः ।अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥
न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥
सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥
अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥
त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥
अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥
यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥
नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥
दश सप्त च वर्षाणि तव जातस्य राघव ।असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥
तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥
अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥
उपवासैः च योगैः च बहुभिः च परिश्रमैः ।दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥
स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥
मम एव नूनम् मरणम् न विद्यते ।न च अवकाशो अस्ति यम क्षये मम ।यद् अन्तको अद्य एव न माम् जिहीर्षति ।प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥
स्थिरम् हि नूनम् हृदयम् मम आयसम् ।न भिद्यते यद् भुवि न अवदीर्यते ।अनेन दुःखेन च देहम् अर्पितम् ।ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥
इदम् तु दुःखम् यद् अनर्थकानि मे।व्रतानि दानानि च सम्यमाः च हि ।तपः च तप्तम् यद् अपत्य कारणात् ।सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥
यदि हि अकाले मरणम् स्वया इच्चया ।लभेत कश्चित् गुरु दुःख कर्शितः ।गता अहम् अद्य एव परेत सम्सदम् ।विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥
अथापि किम् जीवित मद्य मे वृथा ।त्वया विना च्न्द्रनिभाननप्रभ ।अनुव्रजिष्यामि वनम् त्वयैव गौः ।सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥
भृशम् असुखम् अमर्षिता तदा ।बहु विललाप समीक्ष्य राघवम् ।व्यसनम् उपनिशाम्य सा महत् ।सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 19
- Next: Ayodhyā-Kāṇḍa Sarga 21 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷