🪷 अयोध्याकाण्ड · Sarga 19
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 19 · 40 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् ।श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् ॥२-१९-१॥
एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः ।जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् ॥२-१९-२॥
इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः ।न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः ॥२-१९-३॥
मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः ।यास्यामि भव सुप्रीता वनम् चीर जटा धरः ॥२-१९-४॥
हितेन गुरुणा पित्रा क्Rतज्ञेन न्Rपेण च ।नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् ॥२-१९-५॥
अलीकम् मानसम् तु एकम् ह्Rदयम् दहति इव मे ।स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् ॥२-१९-६॥
अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च ।ह्Rष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः ॥२-१९-७॥
किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः ।तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् ॥२-१९-८॥
तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः ।वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति ॥२-१९-९॥
गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् अद्य एव न्Rप शासनात् ॥२-१९-१०॥
दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः ।अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश ॥२-१९-११॥
सा ह्Rष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी ।प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् ॥२-१९-१२॥
एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः ।भरतम् मातुल कुलात् उपावर्तयितुम् नराः ॥२-१९-१३॥
तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् ।राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि ॥२-१९-१४॥
व्रीडा अन्वितः स्वयम् यच् च न्Rपः त्वाम् न अभिभाषते ।न एतत् किम्चिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् ॥२-१९-१५॥
यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् ।पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा ॥२-१९-१६॥
धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः ।मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते ॥२-१९-१७॥
रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः ।कशया इव आहतः वाजी वनम् गन्तुम् क्Rत त्वरः ॥२-१९-१८॥
तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् ।श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् ॥२-१९-१९॥
न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे ।विद्धि माम् Rषिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् ॥२-१९-२०॥
यद् अत्रभवतः किम्चित् शक्यम् कर्तुम् प्रियम् मया ।प्राणान् अपि परित्यज्य सर्वथा क्Rतम् एव तत् ॥२-१९-२१॥
न हि अतः धर्म चरणम् किम्चित् अस्ति महत्तरम् ।यथा पितरि शुश्रूषा तस्य वा वचन क्रिया ॥२-१९-२२॥
अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् ।वने वत्स्यामि विजने वर्षाणि इह चतुर् दश ॥२-१९-२३॥
न नूनम् मयि कैकेयि किम्चित् आशम्ससे गुणम् ।यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती ॥२-१९-२४॥
यावन् मातरम् आप्Rच्चे सीताम् च अनुनयाम्य् अहम् ।ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् ॥२-१९-२५॥
भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा ।तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः ॥२-१९-२६॥
स रामस्य वचः श्रुत्वा भ्Rशम् दुह्ख हतः पिता ।शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् ॥२-१९-२७॥
वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा ।कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः ॥२-१९-२८॥
स रामः पितरम् क्Rत्वा कैकेयीम् च प्रदक्षिणम् ।निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्Rज् जनम् ॥२-१९-२९॥
तम् बाष्प परिपूर्ण अक्षः प्Rष्ठतः अनुजगाम ह ।लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः ॥२-१९-३०॥
आभिषेचनिकम् भाण्डम् क्Rत्वा रामः प्रदक्षिणम् ।शनैः जगाम सापेक्षो द्Rष्टिम् तत्र अविचालयन् ॥२-१९-३१॥
न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति ।लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा ॥२-१९-३२॥
न वनम् गन्तु कामस्य त्यजतः च वसुम्धराम् ।सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया ॥२-१९-३३॥
प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते ।विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् ॥२-१९-३४॥
धारयन् मनसा दुह्खम् इन्द्रियाणि निग्Rह्य च ।प्रविवेश आत्मवान् वेश्म मातुर प्रिय शम्सिवान् ॥२-१९-३५॥
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।नालक्षयत् रामस्य किम्चिदाकारमानने ॥२-१९-३६॥
उचितम् च महाबाहुर्न जहौ हर्षमात्मनः ।शारदः समुदीर्णाम्शुश्चन्द्रस्तेज इवात्मजम् ॥२-१९-३७॥
वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् ।मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥२-१९-३८॥
तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥२-१९-३९॥
प्रविश्य वेश्म अतिभ्Rशम् मुदा अन्वितम् ।समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् ।न चैव रामः अत्र जगाम विक्रियाम् ।सुह्Rज् जनस्य आत्म विपत्ति शन्कया ॥२-१९-४०॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 18
- Next: Ayodhyā-Kāṇḍa Sarga 20 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷