🪷 अयोध्याकाण्ड · Sarga 18

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 18 · 41 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.18.1
स ददर्श आसने रामः निषण्णम् पितरम् शुभे ।कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥
Vālmīki 2.18.2
स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् ।ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥
Vālmīki 2.18.3
राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः ।शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥
Vālmīki 2.18.4
तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् ।रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥
Vālmīki 2.18.5
इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् ।निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥
Vālmīki 2.18.6
ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् ।उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥
Vālmīki 2.18.7
अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् ।बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥
Vālmīki 2.18.8
चिन्तयाम् आस च तदा रामः पित्R हिते रतः ।किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥
Vālmīki 2.18.9
अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति ।तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥
Vālmīki 2.18.10
स दीनैव शोक आर्तः विषण्ण वदन द्युतिः ।कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥
Vālmīki 2.18.11
कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता ।कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥
Vālmīki 2.18.12
अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः ।विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥
Vālmīki 2.18.13
शारीरः मानसो वा अपि कच्चित् एनम् न बाधते ।सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥
Vālmīki 2.18.14
कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने ।शत्रुघ्ने वा महा सत्त्वे मात्RRणाम् वा मम अशुभम् ॥२-१८-१४॥
Vālmīki 2.18.15
अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः ।मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥
Vālmīki 2.18.16
यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः ।कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥
Vālmīki 2.18.17
कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम ।उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥
Vālmīki 2.18.18
एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः ।किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥
Vālmīki 2.18.19
एवमुक्ता तु कैकेयी राघवेण महात्मना ।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥
Vālmīki 2.18.20
न राजा कुपितो राम व्यसनम् नास्य किम्चन ।किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥
Vālmīki 2.18.21
प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते ।तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥
Vālmīki 2.18.22
एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च ।स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥
Vālmīki 2.18.23
अतिसृज्य ददानीति वरम् मम विशाम्पतिः ।स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥
Vālmīki 2.18.24
धर्मूलमिदम् राम विदितम् च सतामपि ।तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥
Vālmīki 2.18.25
यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् ।करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥
Vālmīki 2.18.26
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥
Vālmīki 2.18.27
एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥
Vālmīki 2.18.28
अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः ।अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥
Vālmīki 2.18.29
भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे ।नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥
Vālmīki 2.18.30
तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् ।करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥
Vālmīki 2.18.31
तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् ।उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥
Vālmīki 2.18.32
पुरा देव असुरे युद्धे पित्रा ते मम राघव ।रक्षितेन वरौ दत्तौ सशल्येन महा रणे ॥२-१८-३२॥
Vālmīki 2.18.33
तत्र मे याचितः राजा भरतस्य अभिषेचनम् ।गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥
Vālmīki 2.18.34
यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि ।आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥
Vālmīki 2.18.35
स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥
Vālmīki 2.18.36
भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् ।त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥
Vālmīki 2.18.37
सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः ।अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥
Vālmīki 2.18.38
भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् ।नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥
Vālmīki 2.18.39
एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः ।शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥
Vālmīki 2.18.40
एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन ।सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥
Vālmīki 2.18.41
इतीव तस्यां परुषम् वदन्त्याम् ।नचैव रामः प्रविवेश शोकम् ।प्रविव्यधे चापि महानुभावो ।राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷