🪷 अयोध्याकाण्ड · Sarga 17
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 17 · 22 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः ।पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥
अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् ।स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥
राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् ।चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥
उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च ।अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥
शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् ।सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥
ददर्श तं राजपथं दिवि देवपथम् यथा ।दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥
नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् ।आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥
यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ ।पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥
अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय ।यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥
ततः सुखतरम् सर्वे रामे वत्स्याम राजनि ।अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥
यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ।ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥
यथा अभिषेको रामस्य राज्येन अमित तेजसः ।एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥
आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् ।न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥
नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे ।यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥
निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते ।सर्वेषाम् स हि धर्म आत्मा वर्णानाम् कुरुते दयाम् ॥२-१७-१५॥
चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः ।चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥
प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः ।स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥
प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः ।आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥
वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः ।तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥
राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ।स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥
सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् ।तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा ।जनः स सर्वो मुदितः न्Rप आत्मजे ।प्रतीक्षते तस्य पुनः स्म निर्गमम् ।यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 16
- Next: Ayodhyā-Kāṇḍa Sarga 18 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷