🪷 अयोध्याकाण्ड · Sarga 16

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 16 · 47 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.16.1
स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥
Vālmīki 2.16.2
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥
Vālmīki 2.16.3
तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥
Vālmīki 2.16.4
ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥
Vālmīki 2.16.5
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥
Vālmīki 2.16.6
ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥
Vālmīki 2.16.7
प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥
Vālmīki 2.16.8
तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
Vālmīki 2.16.9
वराह रुधिर आभेण शुचिना च सुगन्धिना ।अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
Vālmīki 2.16.10
स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥
Vālmīki 2.16.11
तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥
Vālmīki 2.16.12
प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥
Vālmīki 2.16.13
कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥
Vālmīki 2.16.14
एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥
Vālmīki 2.16.15
देवि देवः च देवी च समागम्य मद् अन्तरे ।मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥
Vālmīki 2.16.16
लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥
Vālmīki 2.16.17
सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥
Vālmīki 2.16.18
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥
Vālmīki 2.16.19
यादृशी परिषत् तत्र तादृशो दूताअगतः ।ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥
Vālmīki 2.16.20
हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥
Vālmīki 2.16.21
पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥
Vālmīki 2.16.22
राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥
Vālmīki 2.16.23
दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥
Vālmīki 2.16.24
पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥
Vālmīki 2.16.25
अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥
Vālmīki 2.16.26
पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥
Vālmīki 2.16.27
अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
Vālmīki 2.16.28
ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥
Vālmīki 2.16.29
मेघनादमसम्बाधम् मणिहेमविभूशितम् ।मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
Vālmīki 2.16.30
करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
Vālmīki 2.16.31
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
Vālmīki 2.16.32
निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
Vālmīki 2.16.33
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
Vālmīki 2.16.34
तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
Vālmīki 2.16.35
अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
Vālmīki 2.16.36
खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
Vālmīki 2.16.37
सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
Vālmīki 2.16.38
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
Vālmīki 2.16.39
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
Vālmīki 2.16.40
पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
Vālmīki 2.16.41
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
Vālmīki 2.16.42
रोहिणीव शशाङ्केन रामसम्योगमाप या ।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
Vālmīki 2.16.43
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।स राघवः तत्र कथा प्रलापम् ।शुश्राव लोकस्य समागतस्य ।आत्म अधिकारा विविधाः च वाचः ।प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥
Vālmīki 2.16.44
एष श्रियम् गच्चति राघवो अद्य।राज प्रसादात् विपुलाम् गमिष्यन् ।एते वयम् सर्व समृद्ध कामा।येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥
Vālmīki 2.16.45
लाभो जनस्य अस्य यद् एष सर्वम् ।प्रपत्स्यते राष्ट्रम् इदम् चिराय ।स घोषवद्भिः च हयैः सनागैः ।पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥
Vālmīki 2.16.46
स घोषवद्भिश्च हयैः सनागैः ।पुरस्सरैः स्वस्तिकसूतमागधैः ।महीयमानः प्रवरैः च वादकैः ।अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥
Vālmīki 2.16.47
करेणु मातन्ग रथ अश्व सम्कुलम् ।महा जन ओघैः परिपूर्ण चत्वरम् ।पभूतरत्नम् बहुपण्यसम्चयम् ।ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷