🪷 अयोध्याकाण्ड · Sarga 15

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 15 · 49 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 2.15local sarga route with all Sanskrit ślokasAyodhyā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.15.1
ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥
Vālmīki 2.15.2
अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥
Vālmīki 2.15.3
उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥
Vālmīki 2.15.4
कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥
Vālmīki 2.15.5
रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥
Vālmīki 2.15.6
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥
Vālmīki 2.15.7
ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥
Vālmīki 2.15.8
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥
Vālmīki 2.15.9
वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥
Vālmīki 2.15.10
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
Vālmīki 2.15.11
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥
Vālmīki 2.15.12
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥
Vālmīki 2.15.13
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥
Vālmīki 2.15.14
तथाजातीयमादाय राजपुत्राभिषेचन्म् ।ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥
Vālmīki 2.15.15
अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥
Vālmīki 2.15.16
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥
Vālmīki 2.15.17
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥
Vālmīki 2.15.18
गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥
Vālmīki 2.15.19
राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥
Vālmīki 2.15.20
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥
Vālmīki 2.15.21
शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥
Vālmīki 2.15.22
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥
Vālmīki 2.15.23
वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥
Vālmīki 2.15.24
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥
Vālmīki 2.15.25
दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥
Vālmīki 2.15.26
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥
Vālmīki 2.15.27
किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥
Vālmīki 2.15.28
इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥
Vālmīki 2.15.29
निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥
Vālmīki 2.15.30
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥
Vālmīki 2.15.31
अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥
Vālmīki 2.15.32
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥
Vālmīki 2.15.33
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥
Vālmīki 2.15.34
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥
Vālmīki 2.15.35
गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥
Vālmīki 2.15.36
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥
Vālmīki 2.15.37
चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥
Vālmīki 2.15.38
मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥
Vālmīki 2.15.39
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥
Vālmīki 2.15.40
महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥
Vālmīki 2.15.41
स वाजियुक्तेन रथेन सारथि ।र्नराकुलं राजकुलम् विराजयन् ।वरूथिना रामगृहाभिपातिना ।पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥
Vālmīki 2.15.42
ततस्समासाद्य महाधनं महत् ।प्रहृष्टरोमा स बभूव सारथिः ।मृगैर्मयूरैश्च समाकुलोल्बणं ।गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥
Vālmīki 2.15.43
स तत्र कैलासनिभाः स्वलंकृताः ।प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।प्रियान् वरान् राममते स्थितान् बहून् ।व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥
Vālmīki 2.15.44
स तत्र शुश्राव च हर्षयुक्ता ।रामाभिषेकार्थकृता जनानां ।नरेम्द्रसूनोरभिमंगLआर्थाः ।सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥
Vālmīki 2.15.45
महेंद्रसद्मप्रतिमं तु वेश्म ।रामस्य रम्यं मृगमुच्चं ।विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥
Vālmīki 2.15.46
उपस्थितै रञ्जलिकारिभिश्च ।सोपायनैर्जानपदैर्जनैश्च ।कोट्या परार्धैश्च विमुक्तयानैः ।समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥
Vālmīki 2.15.47
ततो महामेघमहीधराभं ।प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।रामोपवाह्याम् रुचिरम् ददर्श ।शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥
Vālmīki 2.15.48
स्वलंकृतान् सास्वरथान् सकुम्जरा ।नमात्यमुखयाम्श्च ददर्श वल्लभान् ।व्यपोह्य सूतः सहितान्समंततः ।समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥
Vālmīki 2.15.49
ततोऽद्रिकूटाचलमेघसन्नि भं ।महाविमानोपमवेश्मसंयुतम् ।अवार्यमाणः प्रविवेश सारथिः ।प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷