🪷 अरण्यकाण्ड · Sarga 30

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 30 · 41 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.30local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.30.1
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥
Vālmīki 3.30.2
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥
Vālmīki 3.30.3
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥
Vālmīki 3.30.4
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥
Vālmīki 3.30.5
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥
Vālmīki 3.30.6
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥
Vālmīki 3.30.7
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥
Vālmīki 3.30.8
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥
Vālmīki 3.30.9
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥
Vālmīki 3.30.10
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥
Vālmīki 3.30.11
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥
Vālmīki 3.30.12
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥
Vālmīki 3.30.13
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥
Vālmīki 3.30.14
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥
Vālmīki 3.30.15
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥
Vālmīki 3.30.16
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥
Vālmīki 3.30.17
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥
Vālmīki 3.30.18
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥
Vālmīki 3.30.19
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥
Vālmīki 3.30.20
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥
Vālmīki 3.30.21
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥
Vālmīki 3.30.22
विकल स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥
Vālmīki 3.30.23
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥
Vālmīki 3.30.24
ततः पावक संकाशम् वधाय समरे शरम् ।खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥
Vālmīki 3.30.25
स तत् दत्तम् मघवता सुर राजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥
Vālmīki 3.30.26
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥
Vālmīki 3.30.27
स पपात खरो भूमौ दह्यमानः शर अग्निना ।रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥
Vālmīki 3.30.28
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥
Vālmīki 3.30.29
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥
Vālmīki 3.30.30
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥
Vālmīki 3.30.31
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥
Vālmīki 3.30.32
अहो बत महत् कर्म रामस्य विदित आत्मनः ।अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥
Vālmīki 3.30.33
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥
Vālmīki 3.30.34
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥
Vālmīki 3.30.35
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥
Vālmīki 3.30.36
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥
Vālmīki 3.30.37
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥
Vālmīki 3.30.38
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥
Vālmīki 3.30.39
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥
Vālmīki 3.30.40
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥
Vālmīki 3.30.41
ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷