🪷 अरण्यकाण्ड · Sarga 31
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 31 · 50 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.31local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥
जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥
एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥
केन भीमम् जनस्थानम् हतम् मम परासुना ।को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥
न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥
कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥
वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥
तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।भयात् संदिग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥
दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥
पुत्रो दशरथः ते सिंह संहननो युवा ।रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥
श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥
अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥
स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥
रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥
रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥
तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥
स तेन सह संयुक्तः पावकेन अनिलो यथा ।श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥
न एव देवा महत्मनो न अत्र कार्या विचारणा ।शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥
सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥
तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥
अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥
अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥
असाध्यः कुपितो रामो विक्रमेण महायशाः ।आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥
स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥
भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥
संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥
न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥
न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-३१-२८॥
भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥
न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥
तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥
अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥
बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥
तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥
स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥
स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥
तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥
कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥
एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥
आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥
तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥
आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥
सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥
प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥
कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥
विशुद्ध वंश अभिजना अग्र हस्तःतेजो मदः संस्थित दोर्??? विषाणः ।उदीक्षितुम् रावण न इह युक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥
असौ रण अन्तः स्थिति संधि वालःविदग्ध रक्षो मृग हा नृसिंहः ।सुप्तः त्वया बोधयितुम् न शक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥
चापापहारे भुज वेग पंकेशर ऊर्मिमाले सु महा आहव ओघे ।न राम पाताल मुखे अति घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥
प्रसीद लंकेश्वर राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।त्वम् स्वेषु दारेषु रमस्व नित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥
एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 30
- Next: Araṇya-Kāṇḍa Sarga 32 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷