🪷 अरण्यकाण्ड · Sarga 29

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 29 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.29local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.29.1
खरम् तु विरथम् रामो गदा पाणिम् अवस्थितम् ।मृदु पूर्वम् महातेजाः परुषम् वाक्यम् अब्रवीत् ॥३-२९-१॥
Vālmīki 3.29.2
गज अश्व रथ संबाधे बले महति तिष्ठता ।कृतम् सुदारुणम् कर्म सर्व लोक जुगुप्सितम् ॥३-२९-२॥
Vālmīki 3.29.3
उद्वेजनीयो भूतानाम् नृशंसः पाप कर्मकृत् ।त्रयाणाम् अपि लोकानाम् ईश्वरो अपि न तिष्ठति ॥३-२९-३॥
Vālmīki 3.29.4
कर्म लोक विरुद्धम् तु कुर्वाणम् क्षणदा चर ।तीक्ष्णम् सर्व जनो हन्ति सर्पम् दुष्टम् इव आगतम् ॥३-२९-४॥
Vālmīki 3.29.5
लोभात् पापानि कुर्वाणः कामात् वा यो न बुध्यते ।हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव ॥३-२९-५॥
Vālmīki 3.29.6
वसतो दण्डकारण्ये तापसान् धर्म चारिणः ।किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस ॥३-२९-६॥
Vālmīki 3.29.7
न चिरम् पाप कर्माणः क्रूरा लोक जुगुप्सिताः ।ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण मूला इव द्रुमाः ॥३-२९-७॥
Vālmīki 3.29.8
अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः ।घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम् ॥३-२९-८॥
Vālmīki 3.29.9
न चिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् ।स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदाचर ॥३-२९-९॥
Vālmīki 3.29.10
पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् ।अहम् आसादितो राज्ञा प्राणान् हन्तुम् निशाचर ॥३-२९-१०॥
Vālmīki 3.29.11
अद्य भित्वा मया मुक्ताः शराः कांचन भूषणाः ।विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥३-२९-११॥
Vālmīki 3.29.12
ये त्वया दण्डकारण्ये भक्षिता धर्म चारिणः ।तान् अद्य निहतः संख्ये स सैन्यो अनुगमिष्यसि ॥३-२९-१२॥
Vālmīki 3.29.13
अद्य त्वाम् निहतम् बाणैः पश्यन्तु परमर्षयः ।निरयस्थम् विमानस्था ये त्वया निहता पुरा ॥३-२९-१३॥
Vālmīki 3.29.14
प्रहरस्व यथा कामम् कुरु यत्नम् कुलाधम ।अद्य ते पातयिष्यामि शिरः ताल फलम् यथा ॥३-२९-१४॥
Vālmīki 3.29.15
एवम् उक्तः तु रामेण क्रुद्धः संरक्त लोचनः ।प्रति उवाच ततो रामम् प्रहसन् क्रोध मूर्चितः ॥३-२९-१५॥
Vālmīki 3.29.16
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ आत्मज ।आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशम्ससि ॥३-२९-१६॥
Vālmīki 3.29.17
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥३-२९-१७॥
Vālmīki 3.29.18
प्राकृताः तु अकृत आत्मानो लोके क्षत्रिय पांसनाः ।निरर्थकम् विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥
Vālmīki 3.29.19
कुलम् व्यपदिशन् वीरः समरे को अभिधास्यति ।मृत्यु काले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥३-२९-१९॥
Vālmīki 3.29.20
सर्वथा तु लघुत्वम् ते कत्थनेन विदर्शितम् ।सुवर्ण प्रतिरूपेण तप्तेन इव कुश अग्निना ॥३-२९-२०॥
Vālmīki 3.29.21
न तु माम् इह तिष्ठंतम् पश्यसि त्वम् गदा धरम् ।धराधरम् इव अकंप्यम् पर्वतम् धातुभिः चितम् ॥३-२९-२१॥
Vālmīki 3.29.22
पर्याप्तो अहम् गदा पाणिर् हन्तुम् प्राणान् रणे तव ।त्रयाणाम् अपि लोकानाम् पाश हस्त इव अंतकः ॥३-२९-२२॥
Vālmīki 3.29.23
कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् ।अस्तम् प्राप्नोति सविता युद्ध विघ्नः ततो भवेत् ॥३-२९-२३॥
Vālmīki 3.29.24
चतुर्दश सहस्राणि राक्षसानाम् हतानि ते ।त्वत् विनाशात् करोमि अद्य तेषाम् अश्रु प्रमार्जनम् ॥३-२९-२४॥
Vālmīki 3.29.25
इति उक्त्वा परम क्रुद्धः ताम् गदाम् परम अन्गदाम् ।खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा ॥३-२९-२५॥
Vālmīki 3.29.26
खर बाहु प्रमुक्ता सा प्रदीप्ता महती गदा ।भस्म वृक्षाम् च गुल्माम् च कृत्वा अगात् तत् समीपतः ॥३-२९-२६॥
Vālmīki 3.29.27
ताम् आपतन्तीम् महतीम् मृत्यु पाश उपमाम् गदाम् ।अंतरिक्ष गताम् रामः चिच्छेद बहुधा शरैः ॥३-२९-२७॥
Vālmīki 3.29.28
सा विशीर्णा शरैः भिन्ना पपात धरणी तले ।गदा मंत्र औषधि बलैर् व्याली इव विनिपातिता ॥३-२९-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷