🪷 अरण्यकाण्ड · Sarga 28

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 28 · 33 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.28local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.28.1
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥
Vālmīki 3.28.2
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥
Vālmīki 3.28.3
तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥
Vālmīki 3.28.4
विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥
Vālmīki 3.28.5
ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥
Vālmīki 3.28.6
स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥
Vālmīki 3.28.7
स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥
Vālmīki 3.28.8
तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥
Vālmīki 3.28.9
शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥
Vālmīki 3.28.10
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥
Vālmīki 3.28.11
तम् रथस्थम् धनुष् पाणिम् राक्षसम् पर्यवस्थितम् ।ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥
Vālmīki 3.28.12
हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् ।परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥
Vālmīki 3.28.13
तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥
Vālmīki 3.28.14
ततः सूर्य निकाशेन रथेन महता खरः ।आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥
Vālmīki 3.28.15
ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥
Vālmīki 3.28.16
स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥
Vālmīki 3.28.17
ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥
Vālmīki 3.28.18
ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥
Vālmīki 3.28.19
स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥
Vālmīki 3.28.20
ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥
Vālmīki 3.28.21
सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥
Vālmīki 3.28.22
ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥
Vālmīki 3.28.23
स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥
Vālmīki 3.28.24
तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥
Vālmīki 3.28.25
स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥
Vālmīki 3.28.26
स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥
Vālmīki 3.28.27
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥
Vālmīki 3.28.28
ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥
Vālmīki 3.28.29
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥
Vālmīki 3.28.30
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥
Vālmīki 3.28.31
छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव ।त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥
Vālmīki 3.28.32
प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥
Vālmīki 3.28.33
तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च ।अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷