🪷 अरण्यकाण्ड · Sarga 27
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 27 · 20 ślokas
🪷 Devanāgarī Ślokas
खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः ।राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥
माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् ।पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥
प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे ।यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥
अहम् वा अस्य रणे मृत्युः एष वा समरे मम ।विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥
प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि ।मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥
खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः ।गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥
त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता ।अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥
शर धारा समूहान् स महामेघ इव उत्सृजन् ।व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥
आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः ।धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥
स संप्रहारः तुमुलो राम त्रिशिरसोः तदा ।संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०॥
ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥
अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् ।पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥
मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् ।एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश ।चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥
न्यपातयत तेजस्वी चतुरः तस्य वाजिनः ।अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥
रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् ।ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥
चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः ।सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥
शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः ।स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥
न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः ।हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥
द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव ।तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् ।रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 26
- Next: Araṇya-Kāṇḍa Sarga 28 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷