🪷 अरण्यकाण्ड · Sarga 26
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 26 · 38 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.26local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च ।संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥३-२६-१॥
राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः ।ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥३-२६-२॥
शर वर्षैः विच्छिन्नम् ववर्षुः तम् समन्ततः ।तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३-२६-३॥
प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः ।प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥३-२६-४॥
रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् ।ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥
शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् ।ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥३-२६-६॥
शरैः अशनि कल्पैः तम् राघवम् समवारयत् ।ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥३-२६-७॥
चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् ।हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥३-२६-८॥
शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि ।स च्छिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥३-२६-९॥
जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् ।वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥३-२६-१०॥
आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् ।वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥३-२६-११॥
तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे ।दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥३-२६-१२॥
तस्य अभिपतमानस्य दूषणस्य स राघवः ।द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त आभरणौ भुजौ ॥३-२६-१३॥
भ्रष्टः तस्य महाकायः पपात रण मूर्धनि ।परिघः छिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥३-२६-१४॥
कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः ।विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥३-२६-१५॥
दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे ।साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥३-२६-१६॥
एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः ।संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥३-२६-१७॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥३-२६-१८॥
स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् ।दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥३-२६-१९॥
तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव ।महाकपालस्य शिरः चिच्छेद रघुनंदनः ॥३-२६-२०॥
असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् ।स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥
स पपात हतो भूमौ विटपी इव महाद्रुमः ।दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥३-२६-२२॥
हत्वा तु पंच सहस्रान् अनयत् यम सदनम् ।दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥३-२६-२३॥
व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् ।अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥३-२६-२४॥
महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् ।शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥३-२६-२५॥
एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे ।श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥३-२६-२६॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पस्यो रुधिराशनः ॥३-२६-२७॥
द्वादश एते महावीर्या बल अध्यक्षाः ।स सैनिकाःरमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥३-२६-२८॥
ततः पावक संकाशैः हेम वज्र विभूषितैः ।जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥
ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः ।निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥
रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना ।सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३-२६-३१॥
तैः भिन्न वर्म आभरणाः छिन्न भिन्न शर आसनाः ।निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३-२६-३२॥
तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः ।विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३-२६-३३॥
तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् ।बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३-२६-३४॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३-२६-३६॥
शेषा हता महावीर्या राक्षसा रण मूर्धनि ।घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३-२६-३७॥
ततः तु तद् भीम बलम् महा आहवेसमीक्ष्य रामेण हतम् बलीयसा ।रथेन रामम् महता खरः ततःसमाससाद इन्द्र इव उद्यत अशनिः ॥३-२६-३८॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 25
- Next: Araṇya-Kāṇḍa Sarga 27 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷