🪷 अरण्यकाण्ड · Sarga 25
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 25 · 47 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.25local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अवष्टब्ध धनुम् रामम् क्रुद्धम् च रिपु घातिनम् ।ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः ॥३-२५-१॥
तम् दृष्ट्वा सगुणम् चापम् उद्यम्य खर निःस्वनम् ।रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत् ॥३-२५-२॥
स खरस्य आज्ञया सूतः तुरगान् समचोदयत् ।यत्र रामो महाबाहुः एको धुन्वन् धनुः स्थितः ॥३-२५-३॥
तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनी चराः ।मुंचमाना महानादम् सचिवाः पर्यवारयन् ॥३-२५-४॥
स तेषाम् यातुधानानाम् मध्ये रथः गतः खरः ।बभूव मध्ये ताराणाम् लोहितांग इव उदितः ॥३-२५-५॥
ततः शर सहस्रेन रामम् अप्रतिम ओजसम् ।अर्दयित्वाअ महानादम् ननाद समरे खरः ॥३-२५-६॥
ततः तम् भीम धन्वानम् क्रुद्धाः सर्वे निशाचराः ।रामम् नाना विधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥
मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः ।राक्षसाः समरे रामम् निजघ्नू रोष तत्पराः ॥३-२५-८॥
ते वलाहक संकाशा महाकाया महाबलाः ।अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च ॥३-२५-९॥
गजैः पर्वत कूट अभैः रामम् युद्धे जिंघासवः ।ते रामे शर वर्षाणि व्यसृजन् रक्षसाम् गणाः ॥३-२५-१०॥
शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः ।सर्वैः परिवृतो रामो राक्षसैः कॄरदर्शिनैः ॥३-२५-११॥
तिथिषु इव महादेवो वृतः पारिषदाम् गणैः ।तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥
प्रतिजग्राह विशिखैः नदि ओघान् इव सागरः ।स तैः प्रहरणैः घोरैः भिन्न गात्रो न विव्यथे ॥३-२५-१३॥
रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महा अचलः ।स विद्धः क्षतज दिग्धः सर्व गात्रेषु राघवः ॥३-२५-१४॥
बभूव रामः सन्ध्य अभ्रैः दिवाकर इव आवृतः ।विषेदुर् देव गन्धर्वाः सिद्धाः च परम ऋषयः ॥३-२५-१५॥
एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् ।ततो रामः तु सुसंक्रुद्धो मण्डली कृत कार्मुकः ॥३-२५-१६॥
ससर्ज निशितान् बाणान् शतशः अथ सहस्रशः ।दुरवारान् दुर्विषहान् कालपाश उपमान् रणे ॥३-२५-१७॥
मुमोच लीलया रामः कंकपत्रान् कांचन भूषणान् ।ते शराः शत्रु सैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥
आददू रक्षसाम् प्राणान् पाशाः कालकृता इव ।भित्त्वा राक्षस देहान् ताम् ते शरा रुधिर आप्लुताः ॥३-२५-१९॥
अंतरिक्ष गता रेजुः दीप्त अग्नि सम तेजसः ।असंख्येयाः तु रामस्य सायकाः चाप मण्डलात् ॥३-२५-२०॥
विनिष्पेतुः अतीव उग्रा रक्षः प्राण अपहारिणः ।तैः धनूंषि ध्वज अग्राणि चर्माणि च शिरांसि च ॥३-२५-२१॥
बहून् स हस्त आभरणान् ऊरून् करि कर उपमान् ।चिछेद रामः समरे शतशः अथ सहस्रशः ॥३-२५-२२॥
हयान् कांचन सन्नाहान् रथ युक्तान् स सारथीन् ।गजाम् च स गज आरोहान् स हयान् सारधिनः तदा ॥३-२५-२३॥
चिछिदुः बिभिदुः च एव राम बाणा गुण च्युताः ।पदातीन् समरे हत्वा हि अनयत् यम सदनम् ॥३-२५-२४॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः विकर्णिभिः ।भीमम् आर्त स्वरम् चक्रुः छिद्यमाना निशाचराः ॥३-२५-२५॥
तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म भेदिभिः ।न रामेण सुखम् लेभे शुष्कम् वनम् इव अग्निना ॥३-२५-२६॥
केचिद् भीम बलाः शूराः प्रासान् शूलान् परश्वधान् ।चिक्षिपुः परम क्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥
तेषाम् बाणैः महाबाहुः शस्त्राणि आवार्य वीर्यवान् ।जहार समरे प्राणान् चिच्छेद च शिरो धरान् ॥३-२५-२८॥
ते छिन्न शिरसः पेतुः छिन्न चर्म शरासनाः ।सुपर्ण वात विक्षिप्ता जगत्याम् पादपा यथा ॥३-२५-२९॥
अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः ।खरम् एव अभ्यधावन्त शरणार्थम् शर आहताः ॥३-२५-३०॥
तान् सर्वान् धनुर् आदाय समाश्वास्य च दूषणः ।अभ्यधावत सुसंक्रुद्धः क्रुद्धः [रुद्रम्] क्रुद्ध इव अन्तकः ॥३-२५-३१॥
निवृत्ताः तु पुनः सर्वे दूषण आश्रय निर्भयाः ।रामम् एव अभ्यधावन्त साल ताल शिल आयुधाः ॥३-२५-३२॥
शूल मुद्गर हस्ताः च पाश हस्ता महाबलाः ।सृजन्तः शर वर्षाणि शस्त्र वर्षाणि संयुगे॥३-२५-३३॥
द्रुम वर्षाणि मुंचन्तः शिला वर्षाणि राक्षसाः ।तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम हर्षणम् ॥३-२५-३४॥
रामस्य अस्य महाघोरम् पुनः तेषाम् च रक्षसाम् ।ते समन्तात् अभिक्रुद्धा राघवम् पुनर् आर्दयन् ॥३-२५-३५॥
ततः सर्वा दिशो दृष्ट्वा प्रदिशाः च समावृताः ।राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥३-२५-३६॥
स कृत्वा भैरवम् नादम् अस्त्रम् परम भास्वरम् ।समयोजयत् गान्धर्वम् राक्षसेषु महाबलः ॥३-२५-३७॥
ततः शर सहस्राणि निर्ययुः चाप मण्डलात् ।सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥३-२५-३८॥
न आददानाम् शरान् घोरान् विमुंचंतम् शर उत्तमान् ।विकर्षमाणम् पश्यन्ति राक्षसाः ते शर आर्दिताः ॥३-२५-३९॥
शर अन्धकारम् आकाशम् आवृणोत् स दिवाकरम् ।बभूव अवस्थितो रामः प्रक्षिपन् इव तान् शरान् ॥३-२५-४०॥
युगपत् पतमानैः च युगपच्च हतैः भ्रिशम् ।युगपत् पतितैः चैव विकीर्णा वसुधा अभवत् ॥३-२५-४१॥
निहताः पतिताः क्षीणा च्छिन्न भिन्न विदारिताः ।तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशः ॥३-२५-४२॥
स उष्णीषैः उत्तम अन्गैः च स अंगदैः बाहुभिः तथा ।ऊरुभिः बाहुभिः च्छिन्नैः नाना रूपैः विभूषणैः ॥३-२५-४३॥
हयैः च द्विप मुख्यैः च रथैः भिन्नैः अनेकशः ।चामर व्यजनैः छत्रैः ध्वजैः नाना विधैः अपि ॥३-२५-४४॥
रामेण बाण अभिहतैः विच्छिन्नैः शूल पट्टिशैः ।खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च पश्वधैः ॥३-२५-४५॥
चूणिताभिः शिलाभिः च शरैः चित्रैः अनेकशः ।विच्छिन्नैः समरे भूमिः विस्तीर्णा आभूत् भयंकरा ॥३-२५-४६॥
तान् दृष्ट्वा निहतान् सर्वे रक्षसाः परम आतुराः ।न तत्र चलितुम् शक्ता रामम् पर पुरंजयम् ॥३-२५-४७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 23
- Next: Araṇya-Kāṇḍa Sarga 26 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷