🪷 अरण्यकाण्ड · Sarga 24

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 24 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 3.24.1
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
Vālmīki 3.24.2
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥
Vālmīki 3.24.3
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥
Vālmīki 3.24.4
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥
Vālmīki 3.24.5
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
Vālmīki 3.24.6
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥
Vālmīki 3.24.7
संप्रहारः तु सुमहान् भविष्यति न संशयः ।अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
Vālmīki 3.24.8
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
Vālmīki 3.24.9
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥
Vālmīki 3.24.10
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥
Vālmīki 3.24.11
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
Vālmīki 3.24.12
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥
Vālmīki 3.24.13
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥
Vālmīki 3.24.14
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥
Vālmīki 3.24.15
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥
Vālmīki 3.24.16
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥
Vālmīki 3.24.17
स तेन अग्नि निकाशेन कवचेन विभूषितः ।बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥
Vālmīki 3.24.18
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥
Vālmīki 3.24.19
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥
Vālmīki 3.24.20
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥
Vālmīki 3.24.21
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
Vālmīki 3.24.22
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
Vālmīki 3.24.23
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
Vālmīki 3.24.24
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥
Vālmīki 3.24.25
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥
Vālmīki 3.24.26
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥
Vālmīki 3.24.27
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
Vālmīki 3.24.28
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
Vālmīki 3.24.29
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
Vālmīki 3.24.30
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
Vālmīki 3.24.31
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
Vālmīki 3.24.32
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
Vālmīki 3.24.33
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
Vālmīki 3.24.34
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
Vālmīki 3.24.35
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥
Vālmīki 3.24.36
तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥

Navigation

Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷