🪷 अरण्यकाण्ड · Sarga 23
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 23 · 34 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.23local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् ।अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥३-२३-१॥
निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः ।समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥
श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् ।अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥३-२३-३॥
ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् ।समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥
जनस्थान समीपे च समाक्रम्य खर स्वनाः ।विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥३-२३-५॥
व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् ।अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥३-२३-६॥
प्रभिन्नगजसंकाशतोयशोणितधारिणः ।यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः ।आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः॥३-२३-७॥
बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् ।दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥३-२३-८॥
क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ ।खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥३-२३-९॥
कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः ।नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥३-२३-१०॥
नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः ।कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥३-२३-११॥
जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः ।प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥३-२३-१२॥
उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः ।संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥३-२३-१३॥
तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः ।उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥३-२३-१४॥
चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः ।उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥३-२३-१५॥
प्रचचाल मही च अपि स शैल वन कानना ।खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत ।स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
ललाटे च रुजो जाता न च मोहात् न्यवर्तत ।तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥३-२३-१८॥
अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा ।महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥३-२३-१९॥
न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव ।तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥३-२३-२०॥
मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् ।राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥३-२३-२१॥
अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे ।यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः ।न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् ।देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥३-२३-२४॥
वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ ।सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥३-२३-२५॥
प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता ।समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥३-२३-२६॥
ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः ।समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥३-२३-२७॥
स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः ।जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२३-२८॥
चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् ।एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥३-२३-२९॥
जात कौतूहलात् तत्र विमानस्थाः च देवताः ।ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥३-२३-३०॥
रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः ।श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥३-२३-३१॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥३-२३-३२॥
द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् ।महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा ।चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥३-२३-३३॥
सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना ।तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥३-२३-३४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 22
- Next: Araṇya-Kāṇḍa Sarga 25 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷