🪷 अरण्यकाण्ड · Sarga 22
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 22 · 24 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.22local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
एवम् आधर्षितः शूरः शूर्पणख्या खरः ततः ।उवाच रक्षसाम् मध्ये खरः खरतरम् वचः ॥३-२२-१॥
तव अपमान प्रभवः क्रोधो अयम् अतुलो मम ।न शक्यते धारयितुम् लवण अंभ इव उल्बणम् ॥३-२२-२॥
न रामम् गणये वीर्यान् मानुषम् क्षीण जीवितम् ।आत्म दुश्चरितैः प्राणान् हतो यो अद्य विमोक्ष्यति ॥३-२२-३॥
बाष्पः सम्धार्यताम् एष संभ्रमः च विमुच्यताम् ।अहम् रामम् सह भ्रात्रा नयामि यम सादनम् ॥३-२२-४॥
परश्वध हतस्य अद्य मन्द प्राणस्य भू तले ।रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि ॥३-२२-५॥
सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनात् च्युतम् ।प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम् ॥३-२२-६॥
तया परुषितः पूर्वम् पुनर् एव प्रशंसितः ।अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥३-२२-७॥
चतुर्दश सहस्राणि मम चित्त अनुवर्तिनाम् ।रक्षसाम् भीम वेगानाम् समरेषु अनिवर्तिनाम् ॥३-२२-८॥
नील जीमूत वर्णानाम् लोक हिंसा विहाराणाम् ।सर्व उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय ॥३-२२-९॥
उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च ।शरान् च चित्रान् खड्गां च शक्ती च विविधाः शिताः ॥३-२२-१०॥
अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् ।वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥३-२२-११॥
इति तस्य ब्रुवाणस्य सूर्य वर्णम् महारथम् ।सत् अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः ॥३-२२-१२॥
तम् मेरु शिखर आकारम् तप्त कांचन भूषणम् ।हेम चक्रम् असंबाधम् वैदूर्यमय कूबरम् ॥३-२२-१३॥
मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र सूर्यैः च कांचनैः ।मांगल्यैः पक्षि सम्घैः च ताराभिः च समावृतम् ॥३-२२-१४॥
ध्वज निस्त्रिंश संपन्नम् किंकिणी वर भूषितम् ।सत् अश्व युक्तम् सः अमर्षात् आरुरोह खरः तदा ॥३-२२-१५॥
खरः तु तान् महत् सैन्याम् रथ चर्म आयुध ध्वजान् ।निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व राक्षसान् ॥३-२२-१६॥
ततः तद् राक्षसम् सैन्यम् घोर चर्म आयुध ध्वजम् ।निर्जगाम जन स्थानात् महानादम् महाजवम् ॥३-२२-१७॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैः च परश्वधैः ।खड्गैः चक्रैः च हस्तस्थैः भ्राजमानैः स तोमरैः ॥३-२२-१८॥
शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः ।गदा असि मुसलैः वज्रैः गृहीतैः भीम दर्शनैः ॥३-२२-१९॥
राक्षसानाम् सुघोराणाम् सहस्राणि चतुर्दश ।निर्यातानि जन स्थानात् खर चित्त अनुवर्तिनाम् ॥३-२२-२०॥
तान् तु निर्धावतो दृष्ट्वा राक्षसान् भीम दर्शनम् ।खरस्य अथ रथः किंचित् जगाम तत् अनन्तरम् ॥३-२२-२१॥
ततः तान् शबलान् अश्वान् तप्त कांचन भूषितान् ।खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥
संचोदितो रथः शीघ्रम् खरस्य रिपु घातिनः ।शब्देन आपूरयामास दिशः स प्रदिशः तथा ॥३-२२-२३॥
प्रवृद्ध मन्युः तु खरः खर स्वरेरिपोः वध अर्थम् त्वरितो यथा अंतकः ।अचूचुदत् सारथिम् उन्नदन् पुनर्महाबलो मेघ इव अश्म वर्षवान् ॥३-२२-२४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 21
- Next: Araṇya-Kāṇḍa Sarga 23 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷