🪷 Ṛgveda 8.94
Aṣṭama-Maṇḍala · Sūkta 94
१२ बिन्दु: पूतदक्षो वा आङ्गिरस: । मरुत: । गायत्री ।
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥१
यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते । सूर्या॒मासा॑ दृ॒शे कम् ॥२
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑: । म॒रुत॒: सोम॑पीतये ॥३
अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑: । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥४
पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः । त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥५
उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑: सु॒तस्य॒ गोम॑तः । प्रा॒तर्होते॑व मत्सति ॥६
कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिध॑: । अर्ष॑न्ति पू॒तद॑क्षसः ॥७
कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे । त्मना॑ च द॒स्मव॑र्चसाम् ॥८
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः । म॒रुत॒: सोम॑पीतये ॥९
त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥१०
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥११
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥१२
— Ṛgveda Maṇḍala 8 · Sūkta 94 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved
Navigation
- ← Previous: RV 8.93
- Next: RV 8.95 →
- Maṇḍala 8 Sūkta-index
- Ṛgveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷