🪷 Ṛgveda 7.11

Saptama-Maṇḍala · Sūkta 11

५ मैत्रावरुणिर्वसिष्ठ:। अग्नि: । त्रिष्टुप् । म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते । आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥१॥ त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्त॒: सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥२॥ त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य । म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥३॥ अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ऽग्निर्विश्व॑स्य ह॒विष॑: कृ॒तस्य॑ । क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताऽथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥४॥ आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् । इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥५॥
— Ṛgveda Maṇḍala 7 · Sūkta 11 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷