🪷 Ṛgveda 6.34

Ṣaṣṭha-Maṇḍala · Sūkta 34

५ शुनहोत्रो भारद्वाज: । इन्द्र: । त्रिष्टुप् । सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥१॥ पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एक॑: पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः । रथो॒ न म॒हे शव॑से युजा॒नो॒३ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥२॥ न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः । यदि॑ स्तो॒तार॑: श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥३॥ अस्मा॑ ए॒तद्दि॒व्य१र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोम॑: । जनं॒ न धन्व॑न्न॒भि सं यदाप॑: स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥४॥ अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि । अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥५॥
— Ṛgveda Maṇḍala 6 · Sūkta 34 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷