🪷 Ṛgveda 6.20

Ṣaṣṭha-Maṇḍala · Sūkta 20

१३ बार्हस्पत्यो भरद्वाज: । इन्द्र: । त्रिष्टुप् , ७ विराट् । द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् । तं न॑: स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥१॥ दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रा ऽसु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् । अहिं॒ यद् वृत्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न् विष्णु॑ना सचा॒नः ॥२॥ तूर्व॒न्नोजी॑यान् त॒वस॒स्तवी॑यान् कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः । राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत् पु॒रां द॒र्त्नुमाव॑त् ॥३॥ श॒तैर॑पद्रन् प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ । व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त् किं च॒न प्र ॥४॥ म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत् पत॑ने॒ पादि॒ शुष्ण॑: । उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्र॒: कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥५॥ प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥६॥ वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः । सुदा॑म॒न् तद् रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥७॥ स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्र॑: स्वभि॒ष्टिसु॑म्नः । आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥८॥ स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द् वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ । तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥९॥ स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रव॑: स्तवन्त ए॒ना य॒ज्ञैः । स॒प्त यत् पुर॒: शर्म॒ शार॑दी॒र्दर्द्धन् दासी॑: पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥१०॥ त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ । परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥११॥ त्वं धुनि॑रिन्द्र॒ धुनि॑मतीॠ॒णोर॒पः सी॒रा न स्रव॑न्तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥१२॥ तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् । दी॒दय॒दित् तुभ्यं॒ सोमे॑भिः सु॒न्वन् दभीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१र्कैः ॥१३॥
— Ṛgveda Maṇḍala 6 · Sūkta 20 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷