🪷 Ṛgveda 5.58

Pañcama-Maṇḍala · Sūkta 58

८ श्यावाश्व आत्रेयः। मरुतः। त्रिष्टुप् । तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् । य आ॒श्व॑श्वा॒ अम॑व॒द् वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राज॑: ॥१॥ त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् । म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥२॥ आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यं यो अ॒ग्निर्म॑रुत॒: समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥३॥ यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः । यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत् सद॑श्वो मरुतः सु॒वीर॑: ॥४॥ अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्ने॑: पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठा॒: स्वया॑ म॒त्या म॒रुत॒: सं मि॑मिक्षुः ॥५॥ यत् प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः । क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥६॥ प्रथि॑ष्ट॒ याम॑न् पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः । वाता॒न् ह्यश्वा॑न् धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥७॥ ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुत॒: कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८॥
— Ṛgveda Maṇḍala 5 · Sūkta 58 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷