🪷 Ṛgveda 5.49

Pañcama-Maṇḍala · Sūkta 49

५ प्रतिप्रभ आत्रेयः, (५ तृणपाणिः)। विश्वे देवाः। त्रिष्टुप्। दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः । आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥१॥ प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥२॥ अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः । इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥३॥ तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत् सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद् वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥४॥ प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः । अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥५॥
— Ṛgveda Maṇḍala 5 · Sūkta 49 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷