🪷 Ṛgveda 5.25

Pañcama-Maṇḍala · Sūkta 25

९ वसूयव आत्रेयाः। अग्निः । अनुष्टुप्। अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑: । रास॑त् पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥१॥ स हि स॒त्यो यं पूर्वे॑ चिद् दे॒वास॑श्चि॒द् यमी॑धि॒रे । होता॑रं म॒न्द्रजि॑ह्व॒मित् सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥२॥ स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या । अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥३॥ अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् । अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥४॥ अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् । अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥५॥ अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभि॑: । अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥६॥ यद् वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद् र॒यिस्त्वद् वाजा॒ उदी॑रते ॥७॥ तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् । उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥८॥ ए॒वाँ अ॒ग्निं व॑सू॒यव॑: सहसा॒नं व॑वन्दिम । स नो॒ विश्वा॒ अति॒ द्विष॒: पर्ष॑न्ना॒वेव॑ सु॒क्रतु॑: ॥९॥
— Ṛgveda Maṇḍala 5 · Sūkta 25 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷