🪷 Ṛgveda 5.10

Pañcama-Maṇḍala · Sūkta 10

७ गय आत्रेयः। अग्निः। अनुष्टुप्, ४-७ पंक्तिः। अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो । प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥१॥ त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ । त्वे अ॑सु॒र्य१मारु॑हत् क्रा॒णा मि॒त्रो न य॒ज्ञिय॑: ॥२॥ त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय । ये स्तोमे॑भि॒: प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥३॥ ये अ॑ग्ने चन्द्र ते॒ गिर॑: शु॒म्भन्त्यश्व॑राधसः । शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द् येषां॑ बृ॒हत् सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥४॥ तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या । परि॑ज्मानो॒ न वि॒द्युत॑: स्वा॒नो रथो॒ न वा॑ज॒युः ॥५॥ नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ । अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥६॥ त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र । होत॑र्विभ्वा॒सहं॑ र॒यिं: स्तो॒तृभ्य॒: स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७॥
— Ṛgveda Maṇḍala 5 · Sūkta 10 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷