🪷 Ṛgveda 3.9

Tṛtīya-Maṇḍala · Sūkta 9

९ गाथिनो विश्वामित्रः। अग्निः। बृहती, ९ त्रिष्टुप्। सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥१॥ काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः । न तत् ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद् दू॒रे सन्नि॒हाभ॑वः ॥२॥ अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि । प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥३॥ ई॒यि॒वांस॒मति॒ स्रिध॒: शश्व॑ती॒रति॑ स॒श्चत॑: । अन्वी॑मविन्दन् निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥४॥ स॒सृ॒वांस॑मिव॒ त्मना॒ ऽग्निमि॒त्था ति॒रोहि॑तम् । ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥५॥ तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन । विश्वा॒न् यद् य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥६॥ तद् भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति । त्वां यद॑ग्ने प॒शव॑: स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥७॥ आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् । आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥८॥ त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥९॥
— Ṛgveda Maṇḍala 3 · Sūkta 9 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷