🪷 Ṛgveda 3.60

Tṛtīya-Maṇḍala · Sūkta 60

७ गाथिनो विश्वामित्रः। ऋभवः, ५-७ इन्द्र ऋभवश्च । जगती। इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभि॒: प्रति॑जूतिवर्पस॒: सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥१॥ याभि॒: शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒: समा॑नश ॥२॥ इन्द्र॑स्य स॒ख्यमृ॒भव॒: समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृत॑: सुकृ॒त्यया॑ ॥३॥ इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न व॑: प्रति॒मै सु॑कृ॒तानि॑ वाघत॒: सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥४॥ इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒: समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन् दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑: स॒ह म॑त्स्वा॒ नृभि॑: ॥५॥ इन्द्र॑ ऋभु॒मान् वाज॑वान् मत्स्वे॒ह नो॒ऽस्मिन् त्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥६॥ इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥७॥
— Ṛgveda Maṇḍala 3 · Sūkta 60 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷