🪷 Ṛgveda 3.48

Tṛtīya-Maṇḍala · Sūkta 48

५ गाथिनो विश्वामित्रः। इन्द्रः। त्रिष्टुप्। स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीन॒: प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥१॥ यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥२॥ उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूध॑: । प्र॒या॒वय॑न्नचर॒द् गृत्सो॑ अ॒न्यान् म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥३॥ उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒ऽऽमुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥४॥ शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥५॥
— Ṛgveda Maṇḍala 3 · Sūkta 48 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷