🪷 Ṛgveda 3.37

Tṛtīya-Maṇḍala · Sūkta 37

११ गाथिनो विश्वामित्रः। इन्द्रः।गायत्री, ११ त्रिष्टुप् । वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च । इन्द्र॒ त्वा व॑र्तयामसि ॥१॥ अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षु॑: शतक्रतो । इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घत॑: ॥२॥ नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे । इन्द्रा॑भिमाति॒षाह्ये॑ ॥३॥ पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि । इन्द्र॑स्य चर्षणी॒धृत॑: ॥४॥ इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे । भरे॑षु॒ वाज॑सातये ॥५॥ वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो । इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥६॥ द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रव॑स्सु च । इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥७॥ शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् । इन्द्र॒ सोमं॑ शतक्रतो ॥८॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥९॥ अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् । उत् ते॒ शुष्मं॑ तिरामसि ॥१०॥॥ अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वत॑: । उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥११॥॥
— Ṛgveda Maṇḍala 3 · Sūkta 37 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷