🪷 Ṛgveda 3.33

Tṛtīya-Maṇḍala · Sūkta 33

१३ गाथिनो विश्वामित्रः, ४, ६, ८, १० नद्यः ऋषिकाः। नद्यः, ४, ८, १० विश्वामित्रः, ६, ७ इन्द्रः। त्रिष्टुप्, १३ अनुष्टुप् । प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने । गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥१॥ इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः । स॒मा॒रा॒णे ऊ॒र्मिभि॒: पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥२॥ अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म । व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥३॥ ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः । न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥४॥ रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवै॑: । प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षा ऽव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥५॥ इन्द्रो॑ अ॒स्माँ अ॑रद॒द् वज्र॑बाहु॒रपा॑हन् वृ॒त्रं प॑रि॒धिं न॒दीना॑म् । दे॒वो॑ऽनयत् सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥६॥ प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् । वि वज्रे॑ण परि॒षदो॑ जघा॒नाऽऽय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥७॥ ए॒तद् वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत् ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ । उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि क॑: पुरुष॒त्रा नम॑स्ते ॥८॥ ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न । नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑: ॥९॥ आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न । नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥१०॥॥ यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन् ग्राम॑ इषि॒त इन्द्र॑जूतः । अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥११॥॥ अता॑रिषुर्भर॒ता ग॒व्यव॒: समभ॑क्त॒ विप्र॑: सुम॒तिं न॒दीना॑म् । प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणा॑: पृ॒णध्वं॑ या॒त शीभ॑म् ॥१२॥ उद् व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत । मादु॑ष्कृतौ॒ व्ये॑नसा॒ ऽघ्न्यौ शून॒मार॑ताम् ॥१३॥
— Ṛgveda Maṇḍala 3 · Sūkta 33 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷