🪷 Ṛgveda 3.27

Tṛtīya-Maṇḍala · Sūkta 27

१५ गाथिनो विश्वामित्रः। अग्निः, १ ऋतवो वा। गायत्री। प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ । दे॒वाञ्जि॑गाति सुम्न॒युः ॥१॥ ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम् ॥२॥ अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिन॑: । अति॒ द्वेषां॑सि तरेम ॥३॥ स॒मि॒ध्यमा॑नो अध्व॒रे॒३ऽग्निः पा॑व॒क ईड्य॑: । शो॒चिष्के॑श॒स्तमी॑महे ॥४॥ पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क् स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥५॥ तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः । आ च॑क्रुर॒ग्निमू॒तये॑ ॥६॥ होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ । वि॒दथा॑नि प्रचो॒दय॑न् ॥७॥ वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते । विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥८॥ धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे । दक्ष॑स्य पि॒तरं॒ तना॑ ॥९॥ नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत । अग्ने॑ सुदी॒तिमु॒शिज॑म् ॥१०॥॥ अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुष॑: । विप्रा॒ वाजै॒: समि॑न्धते ॥११॥॥ ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ । अ॒ग्निमी॑ळे क॒विक्र॑तुम् ॥१२॥ ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः । सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥१३॥ वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः । तं ह॒विष्म॑न्त ईळते ॥१४॥ वृष॑णं त्वा व॒यं वृ॑ष॒न् वृष॑ण॒: समि॑धीमहि । अग्ने॒ दीद्य॑तं बृ॒हत् ॥१५॥
— Ṛgveda Maṇḍala 3 · Sūkta 27 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷