🪷 Ṛgveda 3.11

Tṛtīya-Maṇḍala · Sūkta 11

९ गाथिनो विश्वामित्रः। अग्निः। गायत्री। अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः । स वे॑द य॒ज्ञमा॑नु॒षक् ॥१॥ स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥२॥ अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः । अर्थं॒ ह्य॑स्य त॒रणि॑ ॥३॥ अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् । वह्निं॑ दे॒वा अ॑कृण्वत ॥४॥ अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् । तूर्णी॒ रथ॒: सदा॒ नव॑: ॥५॥ सा॒ह्वान् विश्वा॑ अभि॒युज॒: क्रतु॑र्दे॒वाना॒ममृ॑क्तः । अ॒ग्निस्तु॒विश्र॑वस्तमः ॥६॥ अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्य॑: । क्षयं॑ पाव॒कशो॑चिषः ॥७॥ परि॒ विश्वा॑नि॒ सुधि॑ता॒ ऽग्नेर॑श्याम॒ मन्म॑भिः । विप्रा॑सो जा॒तवे॑दसः ॥८॥ अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे । त्वे दे॒वास॒ एरि॑रे ॥९॥
— Ṛgveda Maṇḍala 3 · Sūkta 11 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷