🪷 Ṛgveda 2.4

Dvitīya-Maṇḍala · Sūkta 4

९ सोमाहुतिर्भार्गवः। अग्निः। त्रिष्टुप्। हु॒वे व॑: सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् । मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद् दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥१॥ इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३योः । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्व॑: ॥२॥ अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धु॑: क्षे॒ष्यन्तो॒ न मि॒त्रम् । स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥३॥ अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षो॑: । वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥४॥ आ यन्मे॒ अभ्वं॑ व॒नद॒: पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् । स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥५॥ आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् । कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥६॥ स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः । अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन् कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥७॥ नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि । अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दा॑: ॥८॥ त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः । सु॒वीरा॑सो अभिमाति॒षाह॒: स्मत् सू॒रिभ्यो॑ गृण॒ते तद् वयो॑ धाः ॥९॥
— Ṛgveda Maṇḍala 2 · Sūkta 4 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷