🪷 Ṛgveda 2.30

Dvitīya-Maṇḍala · Sūkta 30

११ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः।इन्द्रः, ६ इन्द्रसोमौ, ८(पूर्वाऽर्धर्च स्य)। सरस्वती, ९ बृहस्पतिः, ११ मरुतः। त्रिष्टुप्, ११ जगती। ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आप॑: । अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ॥१॥ यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त् प्र तं जनि॑त्री वि॒दुष॑ उवाच । प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म् ॥२॥ ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षे ऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार । मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत् ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्र॑: ॥३॥ बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् । यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ॥४॥ अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वा॑: । तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म् ॥५॥ प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ । इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन् भ॒यस्थे॑ कृणुतमु लो॒कम् ॥६॥ न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म् । यो मे॑ पृ॒णाद् यो दद॒द्यो नि॒बोधा॒द् यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ॥७॥ सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् । त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥८॥ यो न॒: सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य । बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न् द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥९॥ अ॒स्माके॑भि॒: सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि । ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥१०॥ तं व॒: शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म् । यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥११॥
— Ṛgveda Maṇḍala 2 · Sūkta 30 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷