🪷 Ṛgveda 2.25

Dvitīya-Maṇḍala · Sūkta 25

५ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। ब्रह्मणस्पतिः। जगती। इन्धा॑नो अ॒ग्निं व॑नवद् वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद् रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥१॥ वी॒रेभि॑र्वी॒रान् व॑नवद् वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द् बोध॑ति॒ त्मना॑ । तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥२॥ सिन्धु॒र्न क्षोद॒: शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा । अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥३॥ तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चत॒: स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति । अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥४॥ तस्मा॒ इद् विश्वे॑ धुनयन्त॒ सिन्ध॒वो ऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ । दे॒वानां॑ सु॒म्ने सु॒भग॒: स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पति॑: ॥५॥
— Ṛgveda Maṇḍala 2 · Sūkta 25 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷