🪷 Ṛgveda 2.16

Dvitīya-Maṇḍala · Sūkta 16

९ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। इन्द्रः। जगती, ९ त्रिष्टुप्। प्र व॑: स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे । इन्द्र॑मजु॒र्यं ज॒रय॑न्तमुक्षि॒तं स॒नाद् युवा॑न॒मव॑से हवामहे ॥१॥ यस्मा॒दिन्द्रा॑द् बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न् त्संभृ॒ताधि॑ वी॒र्या॑ । ज॒ठरे॒ सोमं॑ त॒न्वी॒३ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥२॥ न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथ॑: । न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभि॒: पत॑सि॒ योज॑ना पु॒रु ॥३॥ विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते । वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑र॒: पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥४॥ वृष्ण॒: कोश॑: पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे । वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥५॥ वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा । वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥६॥ प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः । कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥७॥ पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ । स॒कृत्सु ते॑ सुम॒तिभि॑: शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥८॥ नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद् व॑देम वि॒दथे॑ सु॒वीरा॑: ॥९॥
— Ṛgveda Maṇḍala 2 · Sūkta 16 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷