🪷 Ṛgveda 1.56

Prathama-Maṇḍala · Sūkta 56

६ सव्य आङ्गिरसः। इन्द्रः। जगती। ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषो ऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑: । दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥१॥ तं गू॒र्तयो॑ नेम॒न्निष॒: परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यव॑: । पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥२॥ स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शव॑: । येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥३॥ दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्य॑: । यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणि॑: ॥४॥ वि यत् ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो ऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ । स्व॑र्मीह्ले॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न् वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥५॥ त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥६॥
— Ṛgveda Maṇḍala 1 · Sūkta 56 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷