🪷 Ṛgveda 1.49

Prathama-Maṇḍala · Sūkta 49

४ प्रस्कण्वः काण्वः। उषाः। अनुष्टुप्। उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द् रोच॒नादधि॑ । वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥१॥ सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥२॥ वय॑श्चित् ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उष॒: प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥३॥ व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥४॥
— Ṛgveda Maṇḍala 1 · Sūkta 49 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷